(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.30. अध्यायः 030
Mahabharata - Adi Parva - Chapter Topics
भग्नशाखाया अधोभागे लम्बमानवालखिल्यरक्षणार्थं मुखेन शाखाग्रहणम्॥ 1 ॥
कश्यपाज्ञया हिमालयं गत्वा तत्र शाखां परित्यज्य तत्रैव स्थित्वा गजकच्छपभक्षणम्॥ 2 ॥
उत्पातान्दृष्ट्वा देवैः कृतोऽमृतरक्षणोपायः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text

सौतिरुवाच। 1-30-0x(126)(1485)
स्पष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा।
अभज्यत तरोः शाखा भग्नां चैकामधारयत्॥ 1-30-1(1486)
तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन्।
अथात्रं लम्बतोऽपश्यद्वालखिल्यानधोमुखान्॥ 1-30-2(1487)
ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्।
तपोरतांल्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः॥ 1-30-3(1488)
हन्यादेतान्संपतन्ती शाखेत्यथ विचिन्त्य सः।
नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ॥ 1-30-4(1489)
स तद्विनाशसंत्रासादभिपत्य स्वगाधिपः।
शाखामास्येन जग्राह तेषामेवान्ववेक्षया॥ 1-30-5(1490)
अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः।
विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे॥ 1-30-6(1491)
गुरुं भारं समासाद्योड्डीन एष विहङ्गमः।
गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः॥ 1-30-7(1492)
ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन्।
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः॥ 1-30-8(1493)
दयार्थं वालखिल्यानां न च स्थानमविन्दत।
स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा॥ 1-30-9(1494)
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्।
ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम्॥ 1-30-10(1495)
तेजोवीर्यबलोपेतं मनोमारुतरंहसम्।
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्॥ 1-30-11(1496)
अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम्।
महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्॥ 1-30-12(1497)
अप्रधृष्यमजेयं च देवदानवराक्षसैः।
भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्॥ 1-30-13(1498)
लोकसंलोडनं घोरं कृतान्तसमदर्शनम्।
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा।
विदित्वा चास्यं संकल्पमिदं वचनमब्रवीत्॥ 1-30-14(1499)
कश्यप उवाच। 1-30-15x(127)
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्।
मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः॥ 1-30-15(1500)
सौतिरुवाच। 1-30-16x(128)
ततः प्रसादयामास कश्यपः पुत्रकारणात्।
वालखिल्यान्महाभागांस्तपसा हतकल्मषान्॥ 1-30-16(1501)
कश्यप उवाच। 1-30-17x(129)
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः।
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ॥ 1-30-17(1502)
सौतिरुवाच। 1-30-18x(130)
एवमुक्ता भगवता मुनयस्ते समभ्ययुः।
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्त तपोऽर्थिनः॥ 1-30-18(1503)
ततस्तेष्वपयातेषु पितरं विनतासुतः।
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्॥ 1-30-19(1504)
भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम्।
वर्जितं मानुषैर्देशमाख्यातु भगवान्मम॥ 1-30-20(1505)
सौतिरुवाच। 1-30-21x(131)
ततो निःपुरुषं शैलं हिमसंरुद्धकन्दरम्।
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः॥ 1-30-21(1506)
तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः।
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः॥ 1-30-22(1507)
न तां वध्री परिणहेच्छतचर्मा महातनुम्।
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः॥ 1-30-23(1508)
स ततः शतसाहस्रं योजनान्तरमागतः।
कालेन नातिमहता गरुडः पतगेश्वरः॥ 1-30-24(1509)
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः।
अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः॥ 1-30-25(1510)
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्।
मुमोच पुष्पवर्षं च समागलितपादप॥ 1-30-26(1511)
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः।
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्॥ 1-30-27(1512)
शाखिनो बहवश्चापि शाखयाऽभिहतास्तया।
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः॥ 1-30-28(1513)
ते हेमविकचा भूमौ युताः पर्वतधातुभिः।
व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः॥ 1-30-29(1514)
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः।
भक्षयामास गरुडस्तावुभौ गजकच्छपौ॥ 1-30-30(1515)
तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ।
ततः पर्वतकूटाग्रादुत्पपात महाजवः॥ 1-30-31(1516)
प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः।
इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः॥ 1-30-32(1517)
सधूमा न्यपतत्सार्चिर्दिवोल्का नभसश्च्युता।
तथा वसूनां रुद्राणामादित्यानां च सर्वशः॥ 1-30-33(1518)
साध्यानां मरुतां चैव ये चान्ये देवतागणाः।
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्॥ 1-30-34(1519)
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च।
ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः॥ 1-30-35(1520)
निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम्।
देवानामपि यो देवः सोऽप्यवर्षत शोणितम्॥ 1-30-36(1521)
मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि।
उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु॥ 1-30-37(1522)
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन्।
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः।
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्॥ 1-30-38(1523)
किमर्थं भगवन्घोरा उत्पाताः सहसोत्थिताः।
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्॥ 1-30-39(1524)
बृहस्पतिरुवाच। 1-30-40x(132)
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो।
तपसा वालखिल्यानां महर्षीणां महात्मनाम्॥ 1-30-40(1525)
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः।
हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृक्॥ 1-30-41(1526)
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः।
सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत्॥ 1-30-42(1527)
सौतिरुवाच। 1-30-43x(133)
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः।
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः॥ 1-30-43(1528)
युष्मान्संबोधयाम्येष `गृहीत्वावरणायुधान्।
परिवार्यामृतं सर्वे यूयं मद्वचनादिह॥ 1-30-44(1529)
रक्षध्वं विबुधा वीरा' यथा न स हरेद्बलात्।
अतुलं हि बलं तस्य बृहस्पतिरुवाच ह॥ 1-30-45(1530)
सौतिरुवाच। 1-30-46x(134)
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः।
परिवार्यामृतं तस्थूर्वज्री चेन्द्रः प्रतापवान्॥ 1-30-46(1531)
धारयन्तो विचित्राणि काञ्चनानि मनस्विनः।
कवचानि महार्हाणि वैदूर्यविकृतानि च॥ 1-30-47(1532)
चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च।
विविधानि च शस्त्राणि घोररूपाण्यनेकशः॥ 1-30-48(1533)
शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमः।
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः॥ 1-30-49(1534)
चक्राणि परघांश्चैव त्रिशूलानि परश्वधान्।
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्।
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः॥ 1-30-50(1535)
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः।
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः॥ 1-30-51(1536)
अनुपमबलवीर्यतेजसो
धृतमनसः परिरक्षणेऽमृतस्य।
असुरपुरविदारणाः सुरा
ज्वलनसमिद्धवपुःप्रकाशिनः॥ 1-30-52(1537)
इति समरवरं सुराः स्थितास्ते
परिघसहस्रशतैः समाकुलम्।
विगलितमिव चाम्बरान्तरं
तपनमरीचिविकाशितं बभासे॥ ॥ 1-30-53(1538)

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिंशोऽध्यायः॥ 30 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-30-6 अतिदैवं देवैरपि कर्तुमशक्यम्॥ 1-30-7 गुरुशब्दपूर्वाड्डीड्विहायसागतावित्यस्माड्डः आदेरकारश्च पृषोदरादित्वात् गरुडशब्दो निष्पन्न इत्यर्थः॥ 1-30-18 शाखां मुक्त्वा गिरिं समभ्ययुरिति संबन्धः॥ 1-30-19 शाखया मुखस्थया व्याक्षिप्तं वदनं वचनक्रियायस्य स तथा॥ 1-30-23 शतचर्मा शतगोचर्मणा कृता। वध्री रज्जुः। न परिणहेत् परितो न बध्नीयात्॥ 1-30-29 विकचाः हेमवदुज्ज्वलाः॥ 1-30-33 दिवा अह्नि॥ 1-30-36 देवानां देवः पर्जन्यः॥ 1-30-42 अन्येषामसाध्यमप्ययं साधयेत्॥ 1-30-48 भानुमन्ति दीप्तिमन्ति॥ 1-30-50 स्वदेहरूपाणि स्वदेहानुरूपाणि॥ 1-30-52 ज्वलनवत्समिद्धैर्दीप्यमानैर्वपुर्भिः प्रकाशिनः॥ त्रिंशोऽध्यायः॥ 30 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.