|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.30. अध्यायः 030
Mahabharata - Adi Parva - Chapter Topics
भग्नशाखाया अधोभागे लम्बमानवालखिल्यरक्षणार्थं मुखेन शाखाग्रहणम्॥ 1 ॥
कश्यपाज्ञया हिमालयं गत्वा तत्र शाखां परित्यज्य तत्रैव स्थित्वा गजकच्छपभक्षणम्॥ 2 ॥
उत्पातान्दृष्ट्वा देवैः कृतोऽमृतरक्षणोपायः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-30-0x(126)(1485)
स्पष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा।
अभज्यत तरोः शाखा भग्नां चैकामधारयत्॥ 1-30-1(1486)
तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन्।
अथात्रं लम्बतोऽपश्यद्वालखिल्यानधोमुखान्॥ 1-30-2(1487)
ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्।
तपोरतांल्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः॥ 1-30-3(1488)
हन्यादेतान्संपतन्ती शाखेत्यथ विचिन्त्य सः।
नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ॥ 1-30-4(1489)
स तद्विनाशसंत्रासादभिपत्य स्वगाधिपः।
शाखामास्येन जग्राह तेषामेवान्ववेक्षया॥ 1-30-5(1490)
अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः।
विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे॥ 1-30-6(1491)
गुरुं भारं समासाद्योड्डीन एष विहङ्गमः।
गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः॥ 1-30-7(1492)
ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन्।
एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः॥ 1-30-8(1493)
दयार्थं वालखिल्यानां न च स्थानमविन्दत।
स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा॥ 1-30-9(1494)
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्।
ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम्॥ 1-30-10(1495)
तेजोवीर्यबलोपेतं मनोमारुतरंहसम्।
शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्॥ 1-30-11(1496)
अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम्।
महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्॥ 1-30-12(1497)
अप्रधृष्यमजेयं च देवदानवराक्षसैः।
भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्॥ 1-30-13(1498)
लोकसंलोडनं घोरं कृतान्तसमदर्शनम्।
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा।
विदित्वा चास्यं संकल्पमिदं वचनमब्रवीत्॥ 1-30-14(1499)
कश्यप उवाच। 1-30-15x(127)
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्।
मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः॥ 1-30-15(1500)
सौतिरुवाच। 1-30-16x(128)
ततः प्रसादयामास कश्यपः पुत्रकारणात्।
वालखिल्यान्महाभागांस्तपसा हतकल्मषान्॥ 1-30-16(1501)
कश्यप उवाच। 1-30-17x(129)
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः।
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ॥ 1-30-17(1502)
सौतिरुवाच। 1-30-18x(130)
एवमुक्ता भगवता मुनयस्ते समभ्ययुः।
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्त तपोऽर्थिनः॥ 1-30-18(1503)
ततस्तेष्वपयातेषु पितरं विनतासुतः।
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्॥ 1-30-19(1504)
भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम्।
वर्जितं मानुषैर्देशमाख्यातु भगवान्मम॥ 1-30-20(1505)
सौतिरुवाच। 1-30-21x(131)
ततो निःपुरुषं शैलं हिमसंरुद्धकन्दरम्।
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः॥ 1-30-21(1506)
तं पर्वतं महाकुक्षिमुद्दिश्य स महाखगः।
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः॥ 1-30-22(1507)
न तां वध्री परिणहेच्छतचर्मा महातनुम्।
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः॥ 1-30-23(1508)
स ततः शतसाहस्रं योजनान्तरमागतः।
कालेन नातिमहता गरुडः पतगेश्वरः॥ 1-30-24(1509)
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः।
अमुञ्चन्महतीं शाखां सस्वनं तत्र खेचरः॥ 1-30-25(1510)
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट्।
मुमोच पुष्पवर्षं च समागलितपादप॥ 1-30-26(1511)
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः।
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम्॥ 1-30-27(1512)
शाखिनो बहवश्चापि शाखयाऽभिहतास्तया।
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः॥ 1-30-28(1513)
ते हेमविकचा भूमौ युताः पर्वतधातुभिः।
व्यराजञ्छाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः॥ 1-30-29(1514)
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः।
भक्षयामास गरुडस्तावुभौ गजकच्छपौ॥ 1-30-30(1515)
तावुभौ भक्षयित्वा तु स तार्क्ष्यः कूर्मकुञ्जरौ।
ततः पर्वतकूटाग्रादुत्पपात महाजवः॥ 1-30-31(1516)
प्रावर्तन्ताथ देवानामुत्पाता भयशंसिनः।
इन्द्रस्य वज्रं दयितं प्रजज्वाल भयात्ततः॥ 1-30-32(1517)
सधूमा न्यपतत्सार्चिर्दिवोल्का नभसश्च्युता।
तथा वसूनां रुद्राणामादित्यानां च सर्वशः॥ 1-30-33(1518)
साध्यानां मरुतां चैव ये चान्ये देवतागणाः।
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत्॥ 1-30-34(1519)
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च।
ववुर्वाताः सनिर्घाताः पेतुरुल्काः सहस्रशः॥ 1-30-35(1520)
निरभ्रमेव चाकाशं प्रजगर्ज महास्वनम्।
देवानामपि यो देवः सोऽप्यवर्षत शोणितम्॥ 1-30-36(1521)
मम्लुर्माल्यानि देवानां नेशुस्तेजांसि चैव हि।
उत्पातमेघा रौद्राश्च ववृषुः शोणितं बहु॥ 1-30-37(1522)
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन्।
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः।
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम्॥ 1-30-38(1523)
किमर्थं भगवन्घोरा उत्पाताः सहसोत्थिताः।
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत्॥ 1-30-39(1524)
बृहस्पतिरुवाच। 1-30-40x(132)
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो।
तपसा वालखिल्यानां महर्षीणां महात्मनाम्॥ 1-30-40(1525)
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः।
हर्तुं सोममभिप्राप्तो बलवान्कामरूपधृक्॥ 1-30-41(1526)
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः।
सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत्॥ 1-30-42(1527)
सौतिरुवाच। 1-30-43x(133)
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः।
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः॥ 1-30-43(1528)
युष्मान्संबोधयाम्येष `गृहीत्वावरणायुधान्।
परिवार्यामृतं सर्वे यूयं मद्वचनादिह॥ 1-30-44(1529)
रक्षध्वं विबुधा वीरा' यथा न स हरेद्बलात्।
अतुलं हि बलं तस्य बृहस्पतिरुवाच ह॥ 1-30-45(1530)
सौतिरुवाच। 1-30-46x(134)
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः।
परिवार्यामृतं तस्थूर्वज्री चेन्द्रः प्रतापवान्॥ 1-30-46(1531)
धारयन्तो विचित्राणि काञ्चनानि मनस्विनः।
कवचानि महार्हाणि वैदूर्यविकृतानि च॥ 1-30-47(1532)
चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च।
विविधानि च शस्त्राणि घोररूपाण्यनेकशः॥ 1-30-48(1533)
शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमः।
सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः॥ 1-30-49(1534)
चक्राणि परघांश्चैव त्रिशूलानि परश्वधान्।
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्।
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः॥ 1-30-50(1535)
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः।
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः॥ 1-30-51(1536)
अनुपमबलवीर्यतेजसो
धृतमनसः परिरक्षणेऽमृतस्य।
असुरपुरविदारणाः सुरा
ज्वलनसमिद्धवपुःप्रकाशिनः॥ 1-30-52(1537)
इति समरवरं सुराः स्थितास्ते
परिघसहस्रशतैः समाकुलम्।
विगलितमिव चाम्बरान्तरं
तपनमरीचिविकाशितं बभासे॥ ॥ 1-30-53(1538)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि त्रिंशोऽध्यायः॥ 30 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-30-6 अतिदैवं देवैरपि कर्तुमशक्यम्॥ 1-30-7 गुरुशब्दपूर्वाड्डीड्विहायसागतावित्यस्माड्डः आदेरकारश्च पृषोदरादित्वात् गरुडशब्दो निष्पन्न इत्यर्थः॥ 1-30-18 शाखां मुक्त्वा गिरिं समभ्ययुरिति संबन्धः॥ 1-30-19 शाखया मुखस्थया व्याक्षिप्तं वदनं वचनक्रियायस्य स तथा॥ 1-30-23 शतचर्मा शतगोचर्मणा कृता। वध्री रज्जुः। न परिणहेत् परितो न बध्नीयात्॥ 1-30-29 विकचाः हेमवदुज्ज्वलाः॥ 1-30-33 दिवा अह्नि॥ 1-30-36 देवानां देवः पर्जन्यः॥ 1-30-42 अन्येषामसाध्यमप्ययं साधयेत्॥ 1-30-48 भानुमन्ति दीप्तिमन्ति॥ 1-30-50 स्वदेहरूपाणि स्वदेहानुरूपाणि॥ 1-30-52 ज्वलनवत्समिद्धैर्दीप्यमानैर्वपुर्भिः प्रकाशिनः॥ त्रिंशोऽध्यायः॥ 30 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|